![]() |
Rajat Jain #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersAuthor: Rajat Jain
Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Language: hi Genres: Religion, Religion & Spirituality Contact email: Get it Feed URL: Get it iTunes ID: Get it Trailer: |
Listen Now...
Surabhi Stotram सुरभि स्तोत्रम्
Thursday, 6 November, 2025
।। श्री सुरभि स्तोत्रम् ।। ✓नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ।गवां बीज स्वरूपायै नमस्ते जगदम्बिके ॥ १॥नमो राधा प्रियायै च पद्मांशायै नमो नमः ।नमः कृष्ण प्रियायै च गवां मात्रे नमो नमः ॥ २॥कल्पवृक्ष स्वरूपायै सर्वेषां सततं परम् ।श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥ ३॥शुभदायै प्रसन्नायै गोप्रदायै नमो नमः ।यशोदायै सौख्यदायै धर्मदायै नमो नमः ॥ ४॥स्तोत्र स्मरण मात्रेण तुष्टा हृष्टा जगत्प्रसूः ।आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ ५॥महेन्द्राय वरं दत्त्वा वाञ्छितं सर्व दुर्लभम् ।जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ ६॥बभूव विश्वं सहसा दुग्धपूर्णं च नारद ।दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ७॥इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।स गोमान् धनवांश्चैव कीर्तिवान् पुण्यवान् भवेत ॥ ८॥सुस्नातः सर्व तीर्थेषु सर्व यज्ञेषु दीक्षितः ।इह लोके सुखं भुक्त्वा यात्यन्ते कृष्ण मन्दिरम् ॥ ९॥सुचिरं निवसेत्तत्र कुरुते कृष्ण सेवनम् ।न पुनर्भवनं तस्य ब्रह्मपुत्रो भवे भवेत् ॥ १०॥इति श्रीब्रह्मवैवर्त पुराणे प्रकृति खण्डेइन्द्रकृतं सुरभि स्तोत्रं सम्पूर्णम् ॥






